7. बृहस्पतिसवः - இது अग्निषेटोमவிகிருதி. இதை स्थपतिसवம் என்றும் சொல்லுகிறது. யஜமாநனை மான்தோலில் உட்காரவைத்து, நெய்யினால் அபிஷேகம் செய்கிறது. பிரகிருதியான अग्निष्टोमத்தில் गानம்செய்யும் ஸ்தோத்திரங்களுக்கு பலவித छन्दसुக்களுள்ள ऋக்குகள் ஆதாரங்கள். இந்த बृहस्पतिसवயாகத்தில் गायत्रिछन्दस्सुக்குகளை மாத்திரம் வைத்துக்கொண்டு, மற்ற ऋக்குகளை எடுத்துவிட்டு, அவைகளுக்குப் பதிலாக गायत्रीछन्दस्सुக்குகளைச் சேர்க்கவேண்டியது. दशतयी என்கிற இடத்திலிருந்து அவைகளைச் சேர்க்கவேண்டியதென்று தீர்மானம். (ताण्ड्य.ब्रा.अध्या-17, खण्डः-11; मीमांसा.अध्या-8, पा-3, अधि-6).
(ताण्ड्य.ब्रा.अध्यायः-17,खण्डः-11)
1. त्रिवृदग्निष्टोमः
2. तस्य प्रातःसवने सन्नेषु नाराशंसेष्वेकादशदक्षिणा व्यादिशत्यश्वद्वादशा मध्यन्दिने ता उभयीरपाकरोत्येकादश तृतीयसवने ता वशायां अपाकरोति
3. त्रयस्त्रिंशदेता दक्षिणा भवन्ति त्रयस्त्रिंशद्देवता देवता एवाप्नोत्यश्वश्चतुस्त्रिंशो दक्षिणानां प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिं एवाप्नोति
4. स एष बृहस्पतिसवो बृहस्पतिरकामयत देवानां पुरोधां गच्छेयं इति स एतेनायजत स देवानां पुरोधां अगच्छत्
5. गच्छति पुरोधां य एवं वेद.
6. स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन्स एतेन यजेत.
7. गच्छति स्थापत्यं य एवं वेद.
8. कृष्णाजिनेऽध्यभिषिच्यत एतद्वै प्रत्यक्षं ब्रह्मवर्चसं ब्रह्मवर्चस एवाध्यभिषिच्यते.
9. आज्येनाभिषिच्यते तेज आज्यं तेज आत्मन्धत्ते.
मीमांसा.अध्या-8, पा-3,अधि-6) - गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणम्
8.3.6.12 - गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्यधिकारात्संख्यात्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् ॥, 8.3.6.13 - तन्नित्यवच्च पृथक्सतीषु तद्वचनम् ॥, 8.3.6.14 - न विंशतौ दशेति चेत् ॥, 8.3.6.14 - ऐकसंख्यमेव स्यात् ॥
8.3.6.16 - गुणाद्वा द्रव्यशब्दः स्यादसर्वविषयत्वात् ॥, 8.3.6.17 - गोत्ववच्च समन्वयः ॥, 8.3.6.18 - संख्यायाश्च शब्दवत्त्वात् ॥, 8.3.6.19 - इतरस्याश्रुतित्वाच्च ॥, 8.3.6.20 - द्रव्यान्तरे निवेशादुक्थ्यलोपैर्विशिष्टं स्यात् ॥
8.3.6.21 - अशास्त्रलक्षणत्वाच्च ॥, 8.3.6.22 - उत्पत्तिनामधेयत्वाद्भक्त्या पृथक्सतीषु स्यात् ॥, 8.3.6.23 - वचनमिति चेत् ॥, 8.3.6.24 - यावदुक्तम् ॥, 8.3.6.25 - अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् ॥
8.3.6.26 - ऋग्गुणत्वान्नेति चेत् ॥, 8.3.6.27 - तथा पूर्ववति स्यात् ॥, 8.3.6.28 - गुणावेशश्च सर्वत्र ॥, 8.3.6.29 - निष्पन्नग्रहणान्नेति चेत् ॥, 8.3.6.30 - तथेहापि स्यात् ॥
8.3.6.31 - यदि वाऽविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् ॥, 8.3.6.32 - दृष्टः प्रयोग इति चेत् ॥ 8.3.6.33 - तथा शरेष्वपि ॥, 8.3.6.34 - भक्त्येति चेत् ॥
8.3.6.35 - तथेतरस्मिन् ॥, 8.3.6.36 - अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् ॥